युवाशक्तेः जागरणम्—रमनदीप कौर का प्रेरक संदेश

लेखिका — रमनदीप कौर

लेखिका — रमनदीप कौर

(रमनदीप कौर-महोदयाया युवानां प्रति संदेशः )

शक्तिमान् भव युवकः श्रद्दधानो दृढव्रतः।
इति मन्त्रं ददौ योऽसौ विवेकानन्ददेशकः॥

युवानां मध्ये आत्मविश्वासस्य शक्तेः च जागरणार्थं मम संदेशः अयम् अस्ति—

स्वस्मिन् अटूटं विश्वासं धारयत, स्वस्य सामर्थ्यं परिजानित, स्वजडैः संस्कृत्या च सह दृढं सम्बद्धा भवत। सदा सकारात्मकं चिन्तनं कुर्वन्तु, आव्हानान् पाठरूपेण गृह्णीत, तथा स्वकीयं उत्साहबलं राष्ट्र-समाजनिर्माणार्थं नियोजयन्तु। यतः यूयमेव भविष्यं, यूष्मासु एव संसारपरिवर्तनस्य शक्ति अस्ति।

“स्वस्मिन् विश्वासं कुरुत, संसारः स्वयमेव विश्वसिष्यति।”
स्वान्तःस्थितां शक्तिं अवगच्छत, तां च विकसितां कुर्वन्तु।

भयस्य समक्षं गच्छत, आरामक्षेत्रं (Comfort Zone) त्यजत। असफलताभ्यः शिक्षां गृहीत्वा अग्रे गच्छत; असफलता न अन्तः, अपि तु शिक्षायाः अवसरः अस्ति।
भारतीयां संस्कृतिं, भाषां, परम्परां च कदापि न विस्मरन्तु। स्वजडैः सह सम्बद्धाः सन्तः एव यूयं सबलाः भविष्यथ।

मनः सकारात्मकैः विचारैः सत्सङ्गे च नियोजयन्तु। आध्यात्मिकता ऊर्जा-उत्साहयोः स्रोतः अस्ति।
शिक्षया कौशलविकासेन च स्वसामर्थ्यं वर्धयन्तु। यूयं राष्ट्रस्य भविष्यं, स्वशक्त्या समाजं उज्ज्वलं कुर्वन्तु।

स्वामी-विवेकानन्दस्य इव स्वयमेव दीपाः भवत, स्वप्रकाशेन समाजं प्रकाशयत।
स्वामी-विवेकानन्दस्य शक्ति-जागरणसम्बद्धाः विचाराः मुख्यतया आत्मविश्वासे, आत्मशक्तेः परिचये, आन्तरिकसामर्थ्यस्य जागरणे च केन्द्रिताः आसन्।

तस्य मतम् आसीत्— “ब्रह्माण्डस्य सर्वाः शक्तयः पूर्वमेव अस्माकं सन्ति।” अतः स्वं दुर्बलं मन्यतेति त्यक्त्वा “उत्तिष्ठत, जाग्रत, लक्ष्यप्राप्तिपर्यन्तं न विरमत” इति मन्त्रेण प्रेरिताः भवेम। एष मन्त्रः मानवे अन्तर्निहितां अनन्तां दिव्यां शक्तिं जागर्तुं आह्वानं करोति।

आत्मविश्वासं जागारयन्तु। योग्यगुरोः शरणं गत्वा आत्मज्ञानं प्राप्य, आत्मविश्वासेन सर्वाणि कर्माणि कुर्वन्तु। स्वयम् दुर्बल इति मन्यते, एतदेव महत्तमं पापम् इति स उक्तवान्।

अस्माकं आत्मनि अनन्ता शक्ति अस्ति, अतः स्वस्मिन् विश्वासः अनिवार्यः।
आन्तरिकशक्तेः जागरणं कुर्वन्तु— सम्पूर्णं ब्रह्माण्डीयं बलं अस्माकं अन्तः एव निहितम् अस्ति।

“उत्तिष्ठत, जाग्रत” इति आह्वानं युवानां कृते तस्य सर्वाधिकप्रसिद्धः मन्त्रः अस्ति, यः आलस्यं त्यक्त्वा लक्ष्यसिद्धिपर्यन्तं निरन्तरकर्मण्यतायाः संदेशं ददाति।

स्वामी-विवेकानन्दानुसारं शक्ति-जागरणं बहिः न, अपि तु अन्तः एव भवति। तत् आत्मजागरूकतया, दृढसङ्कल्पेन, निडरतया च आगच्छति। अस्माभिः स्वस्य अनन्तं सामर्थ्यं ज्ञात्वा सर्वाः बाधाः अतिक्रम्य लक्ष्याभिमुखं गन्तव्यम्, यतः—

“शक्तिः जीवनम्, दुर्बलता मृत्युः।”

 

लेखिका — रमनदीप कौर
संस्कृतज्ञा , हिन्दुस्तानी-शास्त्रीय-संगीत-गायिका च!

 

Leave a Reply

Your email address will not be published. Required fields are marked *